भारतीयसंस्कृतौ महिलानां विषये महान् आदरः प्रदर्शितः आचरितः च । तत्र सन्देहः नास्ति । तस्मिन् विषये मया न वक्तव्यम् एव । बहुभिः सज्जनैः एषा संस्कृतिः प्रदर्शिता वर्तते । तेषां सर्वेषां श्रेष्ठत्वं तत् ।
समूहे तु स्थितिः भिन्ना । तान् गणनीयान् सज्जनान् विहाय इतरे तथा न । तैः तस्मिन् विषये वचनम् अनुचितम् । यावत् समूहे एका महिला अपि अवनतिं प्राप्नोति तावत् अस्माभिः महिलाभ्यः आदरः इति विषये वक्तुम् अर्हता नास्ति । अस्माकम् अहङ्कारस्य कारणेन वयं वदेम भारतीये इतिहासे कलाचारे महिलानां कृते आदरः वर्तते इति । पुनः तत् केवलं वक्तुः अहङ्कारः एव ।
संस्कृतेन समूहे परिवर्तनं कथम् इति विषये अस्माकं चिन्तनं भवति चेत् अस्माकं प्रगतिः शक्या । संस्कृतस्य कारणेन समूहे (केषुचित् ग्रामेषु) सुरापानं गार्ह्यहिंसा इत्यादिदुर्व्यसनानाम् उपशान्तिः आनीता इति विषयः महान् – तादृशविषयेषु अस्माकं ध्यानं भवतु ।
महिलायाः आदरः सहवर्तमानेन पुरुषेण (कथमपि सः भवतु!) एव इति दृष्टिः भारतीयां संस्कृतिं न अन्वेति । एतेषां वचनानां वक्तुः विषये यदि चिन्तनं गच्छति वचनेषु चिन्तनं न गच्छति तर्हि तदपि भारतीयसंस्कृतिः न । सामूहिकवर्धनं कामयमाना अहम् अद्य लिखामि ।
In Indian culture and tradition, women are highly regarded and respected. This is a well established fact. Many good people practice this. It represents their greatness.
The reality in society is different. This is not applicable to the society in general, barring those acknowledged above. Such people do not have the privilege of talking about the respect given to women. Even if one woman, or girl, is adversely affected by society, we as a society forfeit that privilege. If we continue to speak, it is only the speaker’s ego.
When we talk about societal reformation through Samskritam, progress can be made. Because of Samskritam, social evils such as alcohol and domestic abuse have been minimized, if not eradicated in certain villages. And this is a big achievement. And our focus should be there.
A woman is respected because of the man she accompanies!!! And, however that man might be. This doesn’t follow our tradition. Looking at the person who is articulating these words, and not the words themselves, again, is against our tradition. I write this today with the desire to see a better society.