Category Archives: Story – कथा

भुवनायाः उपवनम् – Bhuvana’s garden

एषा बालिका । बालिकायाः नाम भुवना ।  bhuvanA

एतद् गृहम् । एतद् भुवनायाः गृहम् ।

गृहं परितः उपवनम् अस्ति । उपवने वृक्षाः लताः सस्यानि च सन्ति । वृक्षेषु लतासु च पर्णानि पुष्पाणि फलानि च सन्ति ।

bhuvanAyAHgRham

 

बालकेभ्यः क्थायां पुष्पाणां नामानि तेषां वर्णाः तेषां चित्राणि च सूचितानि ।

This illustrated children’s ‘story’ describes several flowers – names and colors.  An English equivalent is found here – Buzzy In The Flower Garden

(Written as a little girl’s birthday gift, in 2011.)

Bhekarājaḥ Maṇḍūkaḥ (भेकराजः मण्डूकः)

Bhekarājaḥ Maṇḍūkaḥ (भेकराजः मण्डूकः)

Bhekarājaḥ Maṇḍūkaḥ (भेकराजः मण्डूकः) – Clicking will link to Samskrita Bharati, USA, Bookstore (updated 8/29/2015)

 

जिज्ञासुः बिडालकः

biDAlaH-3एषः  बिडालकः  ।  एतस्य  नाम  जिज्ञासुः  ।  जन्म  पञ्चाशत्  दिनानि  पूर्वम् एव ।

एषः  सर्वदा  जागरूकः  ।  एतद्  किम् ?  तद्  किम् ?  कुतूहलम्  अधिकम्  ।

तत्र  किमपि  कम्पते , किल ?  तद्  किम्  ?  जिज्ञासुः  तत्र  धावति  ।

तत्र  पर्णं  पतति  ।  तद्  किम्  ?  जिज्ञासुः  तत्र  धावति ।

जले  बुद्बुदः  अस्ति  ।  तद्  किम्  ?  जिज्ञासुः  तत्र  धावति ।

biDAlaH-4अत्र  पिपीलिका  चलति  ।  एतद्  किम्  ?  जिज्ञासुः  अत्र  धावति  ।

आवरणे  दाम  कम्पते  ।  तद्  किम्  ?  जिज्ञासुः  तत्र  धावति  ।

भीमहासः  प्रवाते  प्लवते  ।   तद्  किम्  ?  जिज्ञासुः  तत्र धावति ।

भोः ! जिज्ञासो  ! अत्र  आगच्छ  ।  क्षीरं  पिब ।  तद् किम् ?  जिज्ञासुः  अत्र धावति  !

Here is a link to the story in English – A Kitten Named Curiosity, and in Tamizh – துருதுரு பூனைக்குட்டி.

भस्मासुरः – The demon who was reduced to ashes

कदाचित् वृकासुरः तपः करोति स्म ।

वृकः – ॐ नमः शिवाय । (२)

बहुकालः अतीतः ।

वृकः – शम्भो महादेव ।  ॐ नमः शिवाय ।

शिवः वृकासुरस्य पुरतः प्रत्यक्षः भवति स्म ।

शिवः – वृकासुर ।  सन्तुष्टः अस्मि ।  भवान् किम् इच्छति ।

वृकः – अहं लोकस्य राजा भवितुम् इच्छामि ।

शिवः – तथास्तु ।

This is one of my favorite stories.  The demon, in his greed for power and supremacy, foolishly brings destruction that he sought to inflict on others, upon himself.  The story continues …  Those of you interested, please leave a message.

मूषकः वा मोदकं वा?

कश्चन ग्रामः । तत्र किञ्चन गृहम् । तत्र चत्वारः बालकाः सन्ति । ते रामः, भीमः, कुचेलः, मृगाङ्कः च । अद्य गणेशचतुर्थीअवसरः । अम्बा मोदकानि पचति । एकस्मिन् पात्रे मोदकानि स्थापयति ।

अम्ब! अम्ब! अस्ति किं मोदकस्य शिरः?   हे बाल! नैव! नास्ति मोदकस्य शिरः ।
अम्ब! अम्ब! अस्ति किं मोदकस्य कर्णः?    हे बाल! नैव! नास्ति मोदकस्य कर्णः ।

मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र ।
वामनरूप महेश्वरपुत्र विघ्नविनायक पादनमस्ते ॥

Familiar childhood favorite, spiced up and retold in Sanskrit.  Leave a comment if you would like a copy of the complete story.

यक्षप्रश्नः – गद्य-कथा

ततो युधिष्ठिरो राजा नकुलं वचनम् अब्रवीत् ।
आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५ ॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।
इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ६ ॥

वैशम्पायनः कथां वदति । परीक्षित् शृणोति ।  युधिष्ठिरः नकुलं वदति हे माद्रेय। वृक्षम् आरोह । सर्वत्र पश्य ।    जलं कुत्रापि अस्ति वा । वृक्षाः सन्ति वा इति (पश्य) । तव भ्रातरः श्रान्ताः सन्ति । जलम् इच्छन्ति । इति (वदति) ।

Roughly 50 pages (10 to 15 color pages, rest B&W) – A4 size.   For a printed copy please leave a comment.

English version  (about 32 pages – A5 size):

In this session, the story is about a Yakṣa who wants to know.  A Yakṣa is a supernatural magical being.

Yudhiṣṭhira is oldest among the five brothers. “Nakula, can you climb this tree and see if there is water anywhere?”, he says to the older of his two step-brothers.

Nakula climbs the tree. He takes a look. “Over there I see many trees. I see plenty of plants. I also hear the cry of herons. There is sure to be water in that direction”, he says.

भेकराजः मण्डूकः – A Frog named Bhekaraja

मम नाम भेकराजः । अहं मण्डूकः । एषा मम कथा ।

भोः अम्ब ।  भोः तात ।  भोः अग्रजे ।  भोः अनुज   भोः मित्र ।    सर्वे शृण्वन्तु ।

These are the opening lines of a story about a frog and his friends.  It is illustrated to aid in the understanding of the story.  The words are used such as to facilitate natural learning and memorization.  This is a 12 page book, currently printed in landscape A5 size.

Those interested in this story book, which carries Roman and Devanagari script, please leave a comment here.